(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - Drona Parva


॥ श्रीः ॥
7.142. अध्यायः 142
Mahabharata - Drona Parva - Chapter Topics
सात्यकिभूरिश्रवसोर्युद्धम्॥ 1 ॥ सात्यकिशिरच्छेदायोन्नमितस्य स्वङ्गभृतो भूरिश्रवोभुजस्यार्जुनेन सञ्छेदः॥ 2 ॥


Mahabharata - Drona Parva - Chapter Text

सञ्जय उवाच। 7-142-0x(4621)(50981)
तमापतन्तं सम्प्रेक्ष्य सात्वतं युद्धदुर्मदम्।
क्रोधाद्भूरिश्रवा राजन्सहसा समुपाद्रवत्॥ 7-142-1(50982)
तमब्रवीन्महाराज कौरव्यः शिनिपुङ्गवम्।
अद्य प्राप्तोऽपि दिष्ट्या मे चक्षुर्विषयमित्युत॥ 7-142-2(50983)
चिराभिलषितं काममहं प्राप्स्यामि संयुगे।
न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणम्॥ 7-142-3(50984)
अद्य त्वां समरे हत्वा नित्यं शूराभिमानिनम्।
नन्दयिष्यामि दाशार्ह कुरुराजं सुयोधनम्॥ 7-142-4(50985)
अद्य मद्बाणनिर्दग्धं पतितं धरणीतले।
द्रक्ष्यतस्त्वां रणे वीरौ सहितौ केशवार्जुनौ॥ 7-142-5(50986)
अद्य धर्मसुतो राजा श्रुत्वा त्वां निहतं मया।
सव्रीडो भविता सद्यो येनासीह प्रवेशितः॥ 7-142-6(50987)
अद्य मे विक्रमं पार्थो विज्ञास्यति धनञ्जयः।
त्वयि भूमौ विनिहते शयाने रुधिरोक्षिते॥ 7-142-7(50988)
चिराभिलषितो ह्येष त्वया सह समागमः।
पुरा देवासुरे युद्धे शक्रस्य बलिना यथा॥ 7-142-8(50989)
अद्य युद्धं महाघोरं तव दास्यामि सात्वत।
ततो ज्ञास्यसि तत्त्वेन मद्वीर्यबलपौरुषम्॥ 7-142-9(50990)
अद्य संयमनीं याता मया त्वं निहतो रणे।
यथा रामानुजेनाजौ रावणिर्लक्ष्मणेन ह॥ 7-142-10(50991)
अद्य कृष्णश्च पार्थश्च धर्मराजश्च माधव।
हते त्वयि निरुत्साहारणं त्यक्ष्यन्त्यसंशयम्॥ 7-142-11(50992)
अद्य तेऽपचितिं कृत्वा शितैर्माधव सायकैः।
तत्स्त्रियो नन्दयिष्यामि ये त्वया निहता रणे॥ 7-142-12(50993)
मच्चक्षुर्विषये प्राप्तो न त्वं माधव मोक्ष्यसे।
सिंहस्य विषयं प्राप्तो यथा क्षुद्रमृगस्तथा॥ 7-142-13(50994)
सञ्जय उवाच। 7-142-14x(4622)
युयुधानस्तु तं राजन्प्रत्युवाच हसन्निव।
कौरवेय न सन्त्रासो विद्यते मम संयुगे॥ 7-142-14(50995)
नाहं भीषयितुं शक्यो वाङ्मात्रेण तु केवलम्।
स मां निहन्यात्सङ्ग्रामे यो मां कुर्यान्निरायुधम्॥ 7-142-15(50996)
समास्तु शाश्वतीर्हन्याद्यो मां हन्याद्धि संयुगे।
किं वृथोक्तेन बहुना कर्मणा तत्समाचर॥ 7-142-16(50997)
शारदस्येव मेघस्य गर्जितं निष्फलं हिते।
श्रुत्वा त्वद्गर्जितं वीर हास्यं हि मम जायते॥ 7-142-17(50998)
चिरकालेप्सितं लोके युद्धमद्यास्तु कौरव।
त्वरते मे मतिस्तात तव युद्धाभिकाङ्क्षिणी।
नाहत्वाऽहं निवर्तिष्ये त्वामद्य पुरुषाधम॥ 7-142-18(50999)
सञ्जय उवाच। 7-142-19x(4623)
अन्योन्यं तौ तथा वाग्भिस्तक्षन्तौ नरपुङ्गवौ।
जिघांसू परमक्रुद्धभिजघ्नतुराहवे॥ 7-142-19(51000)
समेतौ तौ महेष्वासौ शुष्मिणौ स्पर्धिनौ रणे।
द्विरदाविव सङ्क्रुद्धौ वासितार्थे मदोत्कटौ॥ 7-142-20(51001)
भूरिश्रवाः सात्यकिश्च ववर्षतुररिन्दमौ।
शरवर्षाणि घोराणि मेघाविव परस्परम्॥ 7-142-21(51002)
सौमदत्तिस्तु शैनेयं प्रच्छाद्येषुभिराशुगैः।
जिघांसुर्भरतश्रेष्ठ विव्याध निशितैः शरैः॥ 7-142-22(51003)
दशभिः सात्यकिं विद्ध्वा सौमदत्तिरथापरान्।
मुमोच निशितान्बाणाञ्जिघांसुः शिनिपुङ्गवं॥ 7-142-23(51004)
तानस्य विशिखांस्तीक्ष्णानन्तरिक्षे विशाम्पते।
अप्राप्तानस्त्रमायाभिरग्रसत्सात्यकिः प्रभो॥ 7-142-24(51005)
तौ पृथक्शस्त्रवर्षाभ्यामवर्षेतां परस्परम्।
उत्तमाभिजनौ वीरौ कुरुवृष्मियशस्करौ॥ 7-142-25(51006)
तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ।
रथशक्तिभिरन्योन्यं विशिखैश्चाप्यकृन्तताम्॥ 7-142-26(51007)
निर्भिदन्तौ हि गात्राणि विक्षरन्तौ च शोणितम्।
व्यष्टम्भयेतामन्योन्यं प्राणद्यूताभिदेविनौ॥ 7-142-27(51008)
एवमुत्तमकर्माणौ कुरुवृष्णियशस्करौ।
परस्परमयुध्येतां वारणाविव यूथपौ॥ 7-142-28(51009)
तावदीर्घेण कालेन ब्रह्मलोकपुरस्कृतौ।
यियासन्तौ परं स्थानमन्योन्यं सञ्जगर्जतुः॥ 7-142-29(51010)
सात्यकिः सौमदत्तिश्च शरवृष्ट्या परस्परम्।
हृष्टवद्धार्तराष्ट्राणां पश्यतामभ्यवर्षताम्॥ 7-142-30(51011)
सम्प्रैक्षन्त जनास्तौ तु युध्यमानौ युधाम्पती।
यूथपौ वासिताहेतोः प्रयुद्धाविव कुञ्जरौ॥ 7-142-31(51012)
`भूयोभूयः शरै राजंस्तक्षन्तौ क्रोधमूर्च्छितौ।
अयुध्येतां महारङ्गे वने केसरिणाविव॥ 7-142-32(51013)
मर्मज्ञाविव सङ्क्रुद्धौ जिघांसन्तौ जगर्जतुः।
विमर्दन्तावथान्योन्यं बलवज्रधराविव॥ 7-142-33(51014)
अथान्योन्यं पताकाश्च रथोपकरणानि च।
सञ्चिच्छिदतुरायान्तौ बाणैः सन्नतपर्वभिः॥ 7-142-34(51015)
पुनश्च शरवर्षाभ्यामन्योन्यमभिवर्षताम्।
उभौ तु जघ्नतुस्तूर्णमितरेतरसारथी'॥ 7-142-35(51016)
अन्योन्यस्य हयान्हत्वा धनुषी विनिकृत्य च।
विरथावसियुद्धाय समेयातां महारणे॥ 7-142-36(51017)
आर्षभे चर्मणी चित्रे प्रगृह्य विपुले शुभे।
विकोशौ चाप्यसी कृत्वा समरे तौ विचेरतुः॥ 7-142-37(51018)
चरन्तौ विविधान्मार्गान्मण्डलानि च भागशः।
मुहुराजघ्नतुः क्रुद्धावन्योन्यमरिमर्दनौ।
सखङ्गौ चित्रवर्माणौ सनिष्काङ्गदभूषणौ॥ 7-142-38(51019)
भ्रान्तमुद्धान्तमाविद्धमाप्लुतं विप्लुतं सृतम्।
सम्पातं समुदीर्णं च दर्शयन्तौ यशस्विनौ॥ 7-142-39(51020)
असिभ्यां सम्प्रजहाते परस्परमरिन्दमौ।
उभौ छिद्रैषिणौ वीरावुभौ चित्रं ववल्गतुः॥ 7-142-40(51021)
दर्शयन्तावुभौ शिक्षां लाघवं सौष्ठवं तथा।
रणे रणकृतां श्रेष्ठावन्योन्यं पर्यकर्षताम्॥ 7-142-41(51022)
मुहूर्तमिव राजेन्द्र समाहत्य परस्परम्।
पश्यतां सर्वसैन्यानां वीरावाश्वसतां पुनः॥ 7-142-42(51023)
असिभ्यां चर्मणी चित्रे शतचन्द्रे नराधिप।
निकृत्य पुरुषव्याघ्रौ बाहुयुद्धं प्रचक्रतुः॥ 7-142-43(51024)
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ।
बाहुभिः समसज्जेतामायसैः परिधैरिव॥ 7-142-44(51025)
तयो राजन्भुजाघातनिग्रहप्रग्रहास्तथा।
शिक्षाबलसमुद्भूताः सर्वयोधप्रहर्षणाः॥ 7-142-45(51026)
तयोर्नृवरयो राजन्समरे युध्यमानयोः।
भीमोऽभवन्महाशब्दो वज्रपर्वतयोरिव॥ 7-142-46(51027)
द्विपाविव विषाणाग्रैः शृङ्गैरिव महर्षभौ।
भुजयोक्रावबन्धैश्च शिरोभ्यां चावघातनैः॥ 7-142-47(51028)
पादावकर्षसन्धानैस्तोमराङ्कशलासनैः।
पादोदरविबन्धैश्च भूमावुद्धमणैस्तथा॥ 7-142-48(51029)
गतप्रत्यागताक्षेपैः पातनोत्थानसम्पुतैः।
युयुधाते महात्मानौ कुरुसात्वतपुङ्गवौ॥ 7-142-49(51030)
द्वात्रिंशत्कारणानि स्युर्यानि युद्धानि भारत।
तान्यदर्शयतां तत्र युध्यमानौ महाबलौ॥ 7-142-50(51031)
क्षीणायुधे सात्वते युध्यमाने
ततोऽब्रवीदर्जुनं वासुदेवः।
पश्यस्वैनं विरथं युध्यमानं
रणे वरं सर्वधनुर्धराणाम्॥ 7-142-51(51032)
`सिन्धुराजवधे सक्तं पार्थं कृष्णोऽब्रवीत्पुनः।
सीदन्तं सात्यकिं पश्य पार्थैनं परिरक्ष च'॥ 7-142-52(51033)
प्रविष्टो भारतीं भित्त्वा तव पाण्डव पृष्ठतः।
योधितश्च महावीर्यैः सर्वैर्भारत भारतैः॥ 7-142-53(51034)
धार्तराष्ट्राश्च ये मुख्या ये च मुख्या महारथाः।
निहता वृष्णिवीरेण शतशोऽथ सहस्रशः॥ 7-142-54(51035)
परिश्रान्तं युधां श्रेष्ठं सम्प्राप्तो भूरिदक्षिणः।
युद्धाकाङ्क्षी समायान्तं नैतत्सममिवार्जुन॥ 7-142-55(51036)
ततो भूरिश्रवाः क्रुद्धः सात्यकिं युद्धदुर्मदः।
उद्यम्याभ्याहनद्राजन्मत्तो मत्तमिव द्विपम्॥ 7-142-56(51037)
ततो जलदनिर्घोषः समीपे नृपसत्तम।
हाहाकारो महानासीत्सैन्यानां भरतर्षभ।
यदुद्यम्य महाबाहुः सात्यकिं न्यहनद्भुवि॥ 7-142-57(51038)
रथस्थयोर्द्वयोर्युद्धे क्रुद्धयोर्योधमुख्ययोः।
केशवार्युनयो राजन्समरे प्रेक्षमाणयोः॥ 7-142-58(51039)
अथ कृष्णो महाबाहुरर्जुनं प्रत्यभाषत।
पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम्॥ 7-142-59(51040)
परिश्रान्तं गतं भूमौ कृत्वा कर्म सुदुष्करम्।
तवान्तेवासिनं वीरं पालयार्जुन सात्यकिम्॥ 7-142-60(51041)
न वशं यज्ञशीलस्य गच्छेदेष वरोऽर्जुन।
त्वत्कृते पुरुषव्याघ्र तदाऽऽशु क्रियतां विभो॥ 7-142-61(51042)
सञ्जय उवाच। 7-142-62x(4624)
स सिंह इव मातङ्गं विकर्षन्भूरिदक्षिणः।
व्यरोचत कुरुश्रेष्ठः सात्वतप्रवरं युधि॥ 7-142-62(51043)
अथाब्रवीद्धृष्टमना वासुदेवं धनञ्जयः।
पश्य वृष्णिप्रवीरेण क्रीडन्तं कुरुपुङ्गवम्।
महाद्विपेनेव वने मत्तेन हरियूथपम्॥ 7-142-63(51044)
`मामेव च महाबाहो परियान्ति महारथाः।
यथाशक्ति यतन्तो मां योधयन्तो जनार्दन॥ 7-142-64(51045)
ध्रुवं च योधयाम्येताञ्छिद्रान्वेषणतत्परान्।
रक्षामि सात्यकिं चैव सौमदत्तिवशं गतम्॥ 7-142-65(51046)
अप्राप्तोऽयं मया कृष्म हन्तुं भूरिश्रवा रणे।
अन्येन तु समासक्तं मम नोत्सहते मनः॥ 7-142-66(51047)
अवश्यं च मया कृष्ण वृष्णिवीरस्य रक्षणम्।
मदर्थं युध्यमानस्य कार्यं प्राणैरपि प्रभो॥ 7-142-67(51048)
अधर्मो वाऽस्तु धर्मो वा मम माधव माधवः।
परेण निहतो मा स्म प्राणान्हासीन्महारथः॥ 7-142-68(51049)
सञ्जय उवाच। 7-142-69x(4625)
एवमुक्त्वाऽर्जुनः कृष्णं परानाशु शितैः शरैः।
छादयामास सङ्क्रुद्धः परे चापि धनञ्जयम्॥ 7-142-69(51050)
एवं स्म युध्यते वीरः सात्यकिं च मुहुर्मुहुः।
प्रेक्षते स्म नरव्याघ्रो भूरिश्रवसमेव च'॥ 7-142-70(51051)
तथा तु कृष्यमाणं तं दृष्ट्वा सात्यकिमाहवे।
वासुदेवस्तदा वाक्यं भूयोऽप्यर्जुनमब्रवीत्॥ 7-142-71(51052)
पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवंशं गतम्।
तव शिष्यं महाबाहो धनुष्यनवमं त्वया॥ 7-142-72(51053)
अनित्यो विक्रमः पार्थ यत्र भूरिश्रवा रणे।
विशेषयति वार्ष्णेयं सात्यकिं सत्यविक्रमम्॥ 7-142-73(51054)
`बहुभिर्महारथैरेष पराक्रान्तैर्युयुत्सुभिः।
युद्ध्वा भृशं परिश्रान्तः क्षीणायुधरपरिच्छदः'॥ 7-142-74(51055)
सञ्जय उवाच। 7-142-75x(4626)
एवमुक्तो महाराज वासुदेवेन पाण्डवः।
मनसा पूजयामास भूरिश्रवसमाहवे॥ 7-142-75(51056)
विकर्षन्सात्वतां श्रेष्ठं क्रीडमान इवाहवे।
स हर्षयति मां भूयः कुरूणां नन्दिवर्धनः॥ 7-142-76(51057)
प्रवरं वृष्णिवीराणां यन्निहन्त्येष सात्यकिम्।
महाद्विपमिवारण्ये कर्षन्निव हरिर्भृशम्॥ 7-142-77(51058)
एवं तु मनसा राजन्पार्थः सम्पूज्य कौरवम्।
`अयुध्यतारिभिर्वीरस्तं च सम्प्रेक्षते मुहुः'॥ 7-142-78(51059)
अथ कोशाद्विनिष्कृष्य खङ्गं भूरिश्रवाः शितम्।
मूर्धजेषु च जग्राह पदा चोरस्याताडयत्।
`आक्रम्य चाप्यथोद्यम्य सहासिं सुभुजो भुजम्॥ 7-142-79(51060)
शुशुभे स भुजस्तस्य तपनीयविभूषणः।
मध्ये रथसमूहस्य इन्द्रध्वज इवोच्छ्रितः॥ 7-142-80(51061)
हाहाकृतमभूत्सर्वं पाण्डवानां महद्बलम्।
तावकाश्च मुदा युक्ताः सिंहनादं विचुक्रुशुः॥ 7-142-81(51062)
निमीलिताक्षास्त्वभवञ्जनाः सङ्ग्रामभीरवः।
तथा भूरिश्रवोग्रस्ते सात्वते नष्टविक्रमे॥ 7-142-82(51063)
वासुदेवं महाबाहुरर्जुनः प्रत्यभाषत।
सैन्धवे सक्तदृष्टित्वान्न तं पश्यामि माधवम्॥ 7-142-83(51064)
एष त्वसुकरं कर्म यादवार्थे करोम्यहम्।
मम शिष्यो ममार्थाय युध्यते मम शत्रुभिः।
तं कृष्ण मोक्षयिष्यामि दावात्सिंहशिशुं यथा'॥ 7-142-84(51065)
सञ्जय उवाच। 7-142-85x(4627)
इत्युक्त्वा वचनं कुर्वन्वासुदेवस्य पाण्डवः।
ततः क्षुरप्रं निशितं गाण्डीवे समयोजयत्॥ 7-142-85(51066)
पार्थबाहुविसृष्टः स महोल्केव नभश्च्युता।
सखङ्गं यज्ञशीलस्य बाहुं दक्षिणमच्छिनत्॥ ॥ 7-142-86(51067)

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे द्विचत्वारिंशदधिकशततमोऽध्यायः॥ 142 ॥

Mahabharata - Drona Parva - Chapter Footnotes

5-142-2 उतात्यर्थम्॥ 5-142-16 शाश्वतीः समाः सर्वकालम्। तुरवधारणे। नित्यमेव असौ हन्यात्। जय एव तस्येत्यर्थः॥ 5-142-29 ब्रह्मलोकपुरस्कृतौ ब्राह्मणसमूह सत्कृतौ॥ 5-142-45 भुजाघातो भुजस्फोटः। निग्रहो हस्तधारणम्। प्रग्रहो गलहस्तकः॥ 5-142-47 भुजयोक्त्रावबन्धैर्बाहुपाशवेष्टनैः। अवघातनैस्ताडनैः॥ 5-142-48 पादशब्दः प्रत्येकं सम्बध्यते। पादावकर्षैश्चरणावकर्षणैः। पादसन्धानैश्चरणच्छन्दितकैः। तोमरैरतिस्फोटनैः। अङ्कुशैरवलुञ्चनैः। पादोदरविबन्धैः पादाभ्यामुदरक्रोडीकरणैः। उद्भ्रमणैः परिवर्तनैः॥ 5-142-49 गतैर्गमनैः प्रत्यागतैरावर्तनैः। आक्षेपैरास्फालनैः। पातनैर्भूमिप्रापणैः उत्थानैः उत्पतनैः। सम्प्लुतैः विष्फारानुबन्धैः॥ 5-142-55 समर नुरूपम्॥ 5-142-56 अभ्याहनदास्फालितवान्॥ 5-142-142 द्विचत्वारिशदधिकशततमोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.